Movatterモバイル変換


[0]ホーム

URL:


सामग्री पर जाएँ
विकिपीडिया
अन्विष्यताम्

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतविकिपीडिया

जाले तवस्वागतम् अस्ति।

एषः कश्चन मुक्तः ज्ञानकोशः,
यस्मिन् कोऽपिसम्पादनं कर्तुं शक्नोति

संस्कृते१२,२९५ लेखाः सन्ति।

वसुधा
वसुधा

ऋषिः स यो मनुर्हितः ॥
मनुकुलस्य हिताकांक्षी एव ऋषिः । -ऋग्वेदः ४-५-२


शास्त्रीयलेखाः

केनोपनिषत् प्राचीनासु दशसु उपनिषत्सु अन्यतमा। अस्यां ३४ मन्त्राः विद्यन्ते। अस्याः उपनिषदः प्रमुखः विषयः भवति ब्रह्मविद्या। परब्रह्मस्वरूपः परमात्मा इन्द्रियातीतः, सः एव सर्वप्रेरकः इत्ययं विषयः समीचीनतया वर्णितः वर्तते। ब्रह्मज्ञानिनः लक्षणानि कानि इत्येतं विषयं मनोरञ्जकरीत्या विरोधाभासयुक्तैः वचनैः वर्णितवन्तः सन्ति। कापि देवता न स्वतन्त्रा, सर्वाः देवताः परब्रह्मणा प्रेरिताः इत्ययं सिद्धान्तः अत्र प्रदर्शितः अस्ति। 'एकं सद्विप्रा बहुधा वदन्ति' इत्यस्य वा 'एकमेवाद्वितीयम्' इत्यस्य श्रुतिवाक्यस्य मनोहरं व्याख्यानरूपं वर्तते केनोपनिषत्। परमसत्यम् एकमेव विद्यते, तच्च अतीन्द्रियं विद्यते इत्येतत् तत्त्वद्वयमेव अत्र कविभिः चर्चितः प्रमुखः विषयः। (अधिकवाचनाय »)



आधुनिकलेखः

अष्टाङ्गयोगः अर्थात् योगस्य अष्टानाम् अङ्गानां समूहः। पातञ्जलयोगसूत्रे उ्ल्लेखः वर्तते यत्, यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोsष्टाङ्गानि।।२.२९।। इति। अनेन सूत्रेण एव राजयोगनामकस्य अध्यायस्य आरम्भः भवति। एतानि अष्टाङ्गानि एव राजयोगत्वेन पतञ्जलिमूनिना प्रोक्तानि। अतः एतस्य राजयोगस्य नामान्तरम् एव ‘अष्टाङ्गयोगः’ इति। पतञ्जलिमुनिः अष्टाङ्गयोगस्य भागद्वयम् अकरोत्। बहिरङ्गः, अन्तरङ्गश्चेति। (अधिकवाचनाय »)




ज्ञायते किं भवता?

चतुर्विधपुरुषार्थाः -

  1. धर्मः
  2. अर्थः
  3. कामः
  4. मोक्षः



वार्ताः

मुम्बई
मुम्बई
  • पाकिस्थानस्य किशोरः चेन्नै-नगरे जीवनरक्षकं हृदयप्रत्यारोपणं प्राप्नोति।
  • मुम्बईनगरे प्रथमः तटीयमार्गः प्राप्यते ।
  • बिहारस्य आरामण्डले माहुली-गंगा-नद्याः उपरि अभिनवः प्लवमाना गृहनौका अस्ति ।
  • मोहम्मद शमी, पैरा-आर्चर शीतल देवी च अर्जुनपुरस्कारम् अलभताम्।

अद्यतनं सुभाषितम्

अधमा धनमिच्छन्ति धनमानौ तु मध्यमाः।

उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥

चाणक्यनीतिदर्पणम् ८/१

अनुत्तमाः जनाः जीवने धनमात्रम् इच्छन्ति। धनसम्पादनम् एव तेषां जीवनस्य लक्ष्यं भवति। एतादृशं जीवनं कदापि श्लाघ्यं न भवति। मध्यमजनाः धनं मानं च इच्छन्ति। धनेन सह मानम् अपि एते इच्छन्ति इत्यतः एतेषां जीवनं निन्द्यं न भवति चेदपि अतिप्रशस्तं तु न। महापुरुषाः सदापि मानम् एव इच्छन्ति। ते धनं तृणसमानं भावयन्ति। मानम् एव धनं भावयन्ति। मानधनानाम् एतेषां जीवनम् एव उत्कृष्टम्।


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्

[8]ページ先頭

©2009-2025 Movatter.jp